|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.68. अध्यायः 068
Mahabharata - Udyoga Parva - Chapter Topics
भगवद्वेदनसाधनं पृष्टेन सञ्जयेन धृतराष्ट्रंप्रति तत्कथनम् ॥ 1 ॥ श्रीव्यासेन धृतराष्ट्रंप्रति सञ्जयाद्भगद्वेदनाभ्यनुज्ञा ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
धृतराष्ट्र उवाच। 5-68-0x(3599)(34277)
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम्।
कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय ॥ 5-68-1(34278)
सञ्जय उवाच। 5-68-2x(3600)
श्रृणु राजन्न ते विद्या मम विद्या न हीयते।
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् ॥ 5-68-2(34279)
विद्यया तात जानामि त्रियुगं मधुसूदनम् ।
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् ॥ 5-68-3(34280)
धृतराष्ट्र उवाच। 5-68-4x(3601)
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने।
यया त्वमभिजानासि त्रियुगं मधुसूदनम् ॥ 5-68-4(34281)
सञ्जय उवाच। 5-68-5x(3602)
मायां न सेवे भद्रं ते न वृथाधर्ममाचरे।
शुद्धभावं गतो भक्त्या शास्त्रद्वेद्मि जनार्दनम् ॥ 5-68-5(34282)
धृतराष्ट्र उवाच। 5-68-6x(3603)
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम्।
आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम् ॥ 5-68-6(34283)
दुर्योधन उवाच। 5-68-7x(3604)
भगवान्देवकीपुत्रो लोकांश्चेन्निहनिष्यति।
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् ॥ 5-68-7(34284)
धृतराष्ट्र उवाच। 5-68-8x(3605)
अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः ।
ईर्षुर्दुरात्मा मानी च श्रेयसां वचनातिगः ॥ 5-68-8(34285)
गान्धार्युवाच। 5-68-9x(3606)
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग।
ऐश्वर्यजीतिते हित्वा पितरं मां च बालिश ॥ 5-68-9(34286)
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् ।
निहतो भीमसेनेन स्मर्ताति वचनं पितुः ॥ 5-68-10(34287)
व्यास उवाच। 5-68-11x(3607)
प्रियोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे।
यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते ॥ 5-68-11(34288)
जानात्येष हृषीकेशं पुराणं यच्च वै परम्।
शुश्रूषमाणमैकाग्र्यं मोक्ष्यते महतो भयात् ॥ 5-68-12(34289)
वैचित्रवीर्य पुरुषाः क्रोधहर्षसमावृताः ।
सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः ॥ 5-68-13(34290)
यमस्य वशमायान्ति काममूढाः पुनः पुनः ।
अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः ॥ 5-68-14(34291)
एष एकायनः पन्था येन यान्ति मनीषिणः ।
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सञ्जति ॥ 5-68-15(34292)
धृतराष्ट्र उवाच। 5-68-16x(3608)
अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम्।
येन गत्वा हृषीकेशं प्राप्नुयां सिद्धिमुत्तमाम् ॥ 5-68-16(34293)
सञ्जय उवाच। 5-68-17x(3609)
नाकृतात्मा कृतात्मानं जातु विद्याञ्जनार्दनम् ।
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् ॥ 5-68-17(34294)
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः।
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् ॥ 5-68-18(34295)
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः ।
बुद्धिश्च ते मा च्युवतु नियच्छैनां यतस्ततः ॥ 5-68-19(34296)
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम्।
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः ॥ 5-68-20(34297)
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः।
आगमाधिगमाद्योगाद्वशी तत्त्वे प्रसीदति ॥ ॥ 5-68-21(34298)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि अष्टषष्टितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-68-4 भक्तिः आराध्यत्वेन ज्ञानं एच्च कीदृशम् ॥ 5-68-5 वृथाधर्मं भगवदर्पणं विना न चरामि। शुद्धभावं मनसः कामक्रोधादिराहित्येन नैर्मल्यम् ॥ 5-68-12 ऐकाग्र्यं शुश्रूषमाणं सेवमानं त्वां मोक्ष्यते मोचयिष्यति ॥ 5-68-13 सिताः बद्धाः । पाशैः कामादिभिः ॥ 5-68-14 अन्धनेत्रा अन्धश्चासौ नेता च तेन ॥ 5-68-17 आत्मनः स्वस्य इन्द्रियनिग्रहादन्यत्र इन्द्रियनिग्रहंविना क्रियायागादिरूपा उपायः प्राप्त्युपायो नास्ति ॥ 5-68-21 योगात् चित्तवृत्तिनिरोधात्। वशी ईश्वरः। तत्त्वे स्वयाथात्म्ये विषये। प्रसीदति ज्ञानदानेन अनुगृह्णाति ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|